|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.191. अध्यायः 191
Mahabharata - Adi Parva - Chapter Topics
वसिष्ठोपाख्याने---विश्वामित्रस्य वसिष्ठाश्रमाभिगमनं॥ 1 ॥ वसिष्ठेन विश्वामित्रस्यातिथ्यकरणं॥ 2 ॥ विश्वामित्रेण वसिष्ठधेनुयाचनं॥ 3 ॥ वसिष्ठेनादत्ताया धेनोः विश्वामित्रेण बलात्कारेण हरणं॥ 4 ॥ कुपितया नन्दिन्या सृष्टैः म्लेच्छाद्यैः विश्वामित्रपराजयः॥ 5 ॥ विश्वामित्रस्य तपसा ब्राह्मण्यप्राप्तिः॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text
अर्जुन उवाच। 1-191-0x(1084)(8531)
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत्॥ 1-191-1(8532)
गन्धर्व उवाच। 1-191-2x(1085)
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे॥ 1-191-2(8533)
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः॥ 1-191-3(8534)
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः।
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः॥ 1-191-4(8535)
स चचार सहामात्यो मृगयां गहने वने।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु॥ 1-191-5(8536)
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति॥ 1-191-6(8537)
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया॥ 1-191-7(8538)
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत।
तथैव परिजग्राह वन्येन हविषा तदा॥ 1-191-8(8539)
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः।
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः॥ 1-191-9(8540)
`बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च॥ 1-191-10(8541)
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः।
इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान्॥' 1-191-11(8542)
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च।
षड्रसं चामृतनिभं रसायनमनुत्तमम्॥ 1-191-12(8543)
भोजनीयानि पेयानि भक्ष्याणि विविधानि च।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना॥ 1-191-13(8544)
रत्नानि च महार्हाणि वासांसि विविधानि च।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः॥ 1-191-14(8545)
सामात्यः सबलश्चैव तुतोष स भृशं तदा।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम्॥ 1-191-15(8546)
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्।
सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्॥ 1-191-16(8547)
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम्।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः॥ 1-191-17(8548)
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः॥ 1-191-18(8549)
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने। 1-191-19(8550)
वसिष्ठ उवाच।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी॥ 1-191-19x(1086)
अदेया नन्दिनीयं वै राज्येनापि तवानघ। 1-191-20(8551)
विश्वामित्र उवाच।
`रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः।'
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः॥ 1-191-20x(1087)
ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम्॥ 1-191-21(8552)
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्। 1-191-22(8553)
वसिष्ठ उवाच।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः॥ 1-191-22x(1088)
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय। 1-191-23(8554)
गन्धर्व उवाच।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव॥ 1-191-23x(1089)
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्।
`सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात्।'
कशादण्डप्रणुदिता काल्यमाना इतस्ततः॥ 1-191-24(8555)
हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी॥ 1-191-25(8556)
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः। 1-191-26(8557)
वसिष्ठ उवाच।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः॥ 1-191-26x(1090)
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि।
किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम्। 1-191-27(8558)
गन्धर्व उवाच। 1-191-28x(1091)
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्॥ 1-191-28(8559)
गौरुवाच। 1-191-29x(1092)
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत्।
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे॥ 1-191-29(8560)
गन्धर्व उवाच। 1-191-30x(1093)
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः॥ 1-191-30(8561)
वसिष्ठ उवाच। 1-191-31x(1094)
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते॥ 1-191-31(8562)
नन्दिन्युवाच। 1-191-32x(1095)
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात्॥ 1-191-32(8563)
वसिष्ठ उवाच। 1-191-33x(1096)
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते।
दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात्॥ 1-191-33(8564)
गन्धर्व उवाच। 1-191-34x(1097)
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना॥ 1-191-34(8565)
क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः॥ 1-191-35(8566)
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे॥ 1-191-36(8567)
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ।
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्॥ 1-191-37(8568)
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान्।
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून्॥ 1-191-38(8569)
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः।
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान्॥ 1-191-39(8570)
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान्।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि॥ 1-191-40(8571)
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा।
नानावरणसंछन्नैर्नानायुधधरैस्तथा॥ 1-191-41(8572)
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः॥ 1-191-42(8573)
अस्त्रवर्षेण महता वध्यमानं बलं तदा।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः॥ 1-191-43(8574)
`तस्य तच्चतुरङ्गं वै बलं परमदुःसहम्।
प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम्॥' 1-191-44(8575)
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ॥ 1-191-45(8576)
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम्॥ 1-191-46(8577)
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत।
`विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी॥ 1-191-47(8578)
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे।
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः॥ 1-191-48(8579)
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत्।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे॥ 1-191-49(8580)
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः।
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा॥ 1-191-50(8581)
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च।
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते॥ 1-191-51(8582)
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः॥ 1-191-52(8583)
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन्॥ 1-191-53(8584)
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत्॥ 1-191-54(8585)
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते॥ 1-191-55(8586)
गन्धर्व उवाच। 1-191-56x(1098)
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः।
नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः'॥ 1-191-56(8587)
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा।
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्॥ 1-191-57(8588)
बलाबले विनिश्चित्य तप एव परं बलम्। 1-191-58(8589)
गन्धर्व उवाच।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्॥ 1-191-58x(1099)
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा॥ 1-191-59(8590)
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान्।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः॥ 1-191-60(8591)
`एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह'॥ ॥ 1-191-61(8592)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकनवत्यधिकशततमोऽध्यायः॥ 191 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-191-5 मरुधन्वसु मरुसंज्ञकेष्वल्पजलप्रदेशेषु॥ 1-191-38 पह्लवादयो म्लेच्छविशेषाः॥ एकनवत्यधिकशततमोऽध्यायः॥ 191 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|